(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.48. अध्यायः 048
Mahabharata - Virata Parva - Chapter Topics
कर्णेनात्मश्लाघनपूर्वकमर्जुनपराभवनमिथ्याप्रतिज्ञानम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

कर्ण उवाच। 4-48-0x(3204)(30398)
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ 4-48-1(30399)
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः ।
वासुदेवेन सहितो यदि बीभत्सुरागतः।
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ॥ 4-48-2(30400)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया।
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ॥ 4-48-3(30401)
मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ॥ 4-48-4(30402)
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् ।
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ॥ 4-48-5(30403)
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम्।
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ॥ 4-48-6(30404)
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः ।
खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् ॥ 4-48-7(30405)
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ 4-48-8(30406)
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ 4-48-9(30407)
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु ॥ 4-48-10(30408)
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति ॥ 4-48-11(30409)
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव ।
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ॥ 4-48-12(30410)
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ॥ 4-48-13(30411)
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम्।
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ॥ 4-48-14(30412)
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् ।
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ॥ 4-48-15(30413)
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः ।
शलभानामिवाकाशे छाया संप्रति दृश्यताम् ॥ 4-48-16(30414)
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः।
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ॥ 4-48-17(30415)
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव ।
पततां पततां घोषः पततां पततामिव ॥ 4-48-18(30416)
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् ।
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ॥ 4-48-19(30417)
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम्।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ 4-48-20(30418)
शरजालमहाज्वालमसिशक्तिगदेन्धनम् ।
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ॥ 4-48-21(30419)
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥ 4-48-22(30420)
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः ।
संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ॥ 4-48-23(30421)
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् ।
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ॥ 4-48-24(30422)
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः।
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ 4-48-25(30423)
जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात्।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ 4-48-26(30424)
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ 4-48-27(30425)
कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ ॥ 4-48-28(30426)

इति श्रीमन्माहाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-48-18 बर्हिणां बहिणामिव एकैकस्य पृष्ठेपृष्ठे गच्छतां मयूराणां मयूराणामिव बर्हिबर्हिणराजानां बर्हिणो मयूरस्य बर्हिणैः शरमूले पत्ररूपेण स्थितमयूरपत्रैः राजानां राजमानानां । राजृदीप्ताविति धातोः कर्त्रर्थे पचाद्यचि कृते रूपनिष्पत्तिः । पततां पततां एकैकस्य शरस्य पृष्ठे पृष्ठे निपततां शराणां घोषः पततां मालारूपेण निपतमानानां पततां पक्षिणां घोष इव अखिलैः श्रूयतामिति योग्यक्रियाध्याहारेण संबन्धः । यद्वा बर्हिणां बर्हवतां उत्पन्नबर्हाणामित्यर्थः । बर्हिणं मयूराणामिव पततां पततां पुंखानुपुंखतया क्षणेक्षणे पततां पततां शराणां घोषः पततां पक्षिणां घोष इव पततां दिशिदिशि पततामिति लोडन्तक्रिया। सर्वैः श्रूयतामिति भावः । बर्हिबर्हिणवाजानामिति टo थo धo पाठः ॥ 18 ॥ ॥ अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.