|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.48. अध्यायः 048
Mahabharata - Virata Parva - Chapter Topics
कर्णेनात्मश्लाघनपूर्वकमर्जुनपराभवनमिथ्याप्रतिज्ञानम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
कर्ण उवाच। 4-48-0x(3204)(30398)
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये।
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥ 4-48-1(30399)
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः ।
वासुदेवेन सहितो यदि बीभत्सुरागतः।
अहमेनं निरोत्स्यामि वेलेव वरुणालयम् ॥ 4-48-2(30400)
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया।
छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः ॥ 4-48-3(30401)
मम चापप्रमुक्तानां शराणां नतपर्वणाम् ।
निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव ॥ 4-48-4(30402)
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् ।
श्रूयते तलयोः शब्दो भेर्योराहतयोरिव ॥ 4-48-5(30403)
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम्।
हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान् ॥ 4-48-6(30404)
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः ।
खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम् ॥ 4-48-7(30405)
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ 4-48-8(30406)
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् ।
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः ॥ 4-48-9(30407)
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् ।
स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु ॥ 4-48-10(30408)
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च ।
जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति ॥ 4-48-11(30409)
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव ।
शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव ॥ 4-48-12(30410)
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः ।
अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित् ॥ 4-48-13(30411)
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम्।
निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम् ॥ 4-48-14(30412)
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् ।
तुगुलः श्रूयतां नादः षट्पदां गायतामिव ॥ 4-48-15(30413)
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः ।
शलभानामिवाकाशे छाया संप्रति दृश्यताम् ॥ 4-48-16(30414)
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः।
शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः ॥ 4-48-17(30415)
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव ।
पततां पततां घोषः पततां पततामिव ॥ 4-48-18(30416)
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् ।
धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम् ॥ 4-48-19(30417)
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम्।
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥ 4-48-20(30418)
शरजालमहाज्वालमसिशक्तिगदेन्धनम् ।
निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम् ॥ 4-48-21(30419)
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् ।
विवशं पार्थमादास्ये गरुत्मानिव पन्नगम् ॥ 4-48-22(30420)
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः ।
संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम् ॥ 4-48-23(30421)
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् ।
समूलमपनेष्यामि हरन्पार्थशिरः शरैः ॥ 4-48-24(30422)
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः।
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् ।
निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः ॥ 4-48-25(30423)
जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात्।
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम् ॥ 4-48-26(30424)
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया।
अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥ 4-48-27(30425)
कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः ।
रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥ ॥ 4-48-28(30426)
इति श्रीमन्माहाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-48-18 बर्हिणां बहिणामिव एकैकस्य पृष्ठेपृष्ठे गच्छतां मयूराणां मयूराणामिव बर्हिबर्हिणराजानां बर्हिणो मयूरस्य बर्हिणैः शरमूले पत्ररूपेण स्थितमयूरपत्रैः राजानां राजमानानां । राजृदीप्ताविति धातोः कर्त्रर्थे पचाद्यचि कृते रूपनिष्पत्तिः । पततां पततां एकैकस्य शरस्य पृष्ठे पृष्ठे निपततां शराणां घोषः पततां मालारूपेण निपतमानानां पततां पक्षिणां घोष इव अखिलैः श्रूयतामिति योग्यक्रियाध्याहारेण संबन्धः । यद्वा बर्हिणां बर्हवतां उत्पन्नबर्हाणामित्यर्थः । बर्हिणं मयूराणामिव पततां पततां पुंखानुपुंखतया क्षणेक्षणे पततां पततां शराणां घोषः पततां पक्षिणां घोष इव पततां दिशिदिशि पततामिति लोडन्तक्रिया। सर्वैः श्रूयतामिति भावः । बर्हिबर्हिणवाजानामिति टo थo धo पाठः ॥ 18 ॥ ॥ अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|